वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣢दु꣣ त्यं꣢ जा꣣त꣡वे꣢दसं दे꣣वं꣡ व꣢हन्ति के꣣त꣡वः꣢ । दृ꣣शे꣡ विश्वा꣢꣯य꣣ सू꣡र्य꣢म् ॥३१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥३१॥

मन्त्र उच्चारण
पद पाठ

उ꣢त् । उ꣣ । त्य꣢म् । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । देव꣢म् । व꣣हन्ति । केत꣡वः꣢ । दृ꣣शे꣢ । वि꣡श्वा꣢꣯य । सू꣡र्य꣢꣯म् ॥३१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 31 | (कौथोम) 1 » 1 » 3 » 11 | (रानायाणीय) 1 » 3 » 11


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सूर्य के दृष्टान्त से परमेश्वर विषय का उपदेश है।

पदार्थान्वयभाषाः -

प्रथम—सूर्य के पक्ष में। (केतवः) किरणें (त्यम्) उस प्रसिद्ध, (जातवेदसम्) उत्पन्न पदार्थों को प्रकाशित करनेवाले, (देवम्) प्रकाशमान, प्रकाशक, दिन-रात आदि के प्रदाता तथा द्युलोक में स्थित (सूर्यम्) सूर्य-रूप अग्नि को (विश्वाय दृशे) सब प्राणियों के दर्शन के लिए (उद् वहन्ति) पृथिवी आदि लोकों में पहुँचाती हैं, अर्थात् सूर्य ऊपर स्थित हुआ भी किरणों द्वारा सब लोकों में पहुँच जाता है ॥ द्वितीय—परमेश्वर के पक्ष में। (केतवः) जिन्हें ऋतम्भरा प्रज्ञा प्राप्त हो गई है, वे योगी लोग (त्यम्) स्वयं अनुभव किये गये उस प्रसिद्ध, (जातवेदसम्) सर्वज्ञ, सर्वव्यापक, धनों के उत्पादक और ज्ञानप्रदायक, (देवम्) दिव्यगुणप्रदाता (सूर्यम्) सूर्य के सदृश ज्योतिर्मय परमेश्वर-रूप अग्नि को (विश्वाय दृशे) सबके साक्षात्कार के लिए (उद् वहन्ति) सर्वत्र प्रचारित करते हैं ॥११॥ इस मन्त्र में श्लेषालङ्कार है। सूर्य और परमेश्वर का उपमानोपमेयभाव व्यंग्य है ॥११॥

भावार्थभाषाः -

जैसे सूर्य के प्रकाश को उसकी किरणें भूमि आदि लोकों में पहुँचाती हैं, जिससे सब लोग देख सकें, वैसे ही योगी विद्वान् जन परमेश्वर का स्वयं साक्षात्कार करके अन्यों के दर्शनार्थ उसे सर्वत्र प्रचारित करते हैं ॥११॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सूर्यदृष्टान्तेनेश्वरविषय उपदिश्यते।

पदार्थान्वयभाषाः -

प्रथमः—सूर्यपरः। (केतवः) किरणाः (त्यम्) तं प्रसिद्धम् (जातवेदसम्) यो जातान् पदार्थान् वेदयते प्रकाशयति तादृशम्, (देवम्) प्रकाशमानं, प्रकाशकम्, अहोरात्रादीनां दातारम्, द्युस्थानभवं च। देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा। निरु० ७।१५। (सूर्यम्) आदित्यरूपम् अग्निम् (विश्वाय दृशे) सर्वेषां भूतानां दर्शनाय। विश्वाय इत्यत्र षष्ठ्यर्थे चतुर्थीति वाच्यम्’ अ० २।३।६२ वा० इति षष्ठ्यर्थे चतुर्थी। विश्वस्मै इति प्राप्ते छन्दसि विभाषा सर्वनामसंज्ञानिषेधात् स्मै आदेशो न। दृशे इति दृशे विख्ये च अ० ३।४।११ इत्यनेन तुमर्थे के प्रत्ययान्तो निपातः। (उद् वहन्ति) पृथिव्यादिलोकेषु प्रसारयन्ति। उपरि स्थितोऽप्यादित्यः किरणद्वारा सर्वान् लोकान् प्राप्नोतीति भावः ॥ इमं मन्त्रं यास्कमुनिरेवं व्याचष्टे—उद्वहन्ति तं जातवेदसं रश्मयः केतवः सर्वेषां भूतानां दर्शनाय सूर्यमिति कमन्यमादित्यादेवमवक्ष्यत् इति। निरु० १०।१५ ॥ अथ द्वितीयः—परमेश्वरपरः। (केतवः) केतुमन्तः प्राप्तऋतम्भराप्रज्ञा योगिनो विद्वांसः२ । केतुरिति प्रज्ञानामसु पठितम्। निघं० ३।९। अत्र मतुपो लुक्। (त्यम्) तं स्वानुभूतं प्रसिद्धम् (जातवेदसम्) सर्वज्ञं, सर्वव्यापकं, सर्वैर्ज्ञेयं, धनोत्पादकं, ज्ञानप्रदायकं च। जातवेदाः कस्मात्? जातानि वेद, जातानि वैनं विदुः जाते जाते विद्यत इति वा, जातवित्तो वा जातधनः, जातविद्यो वा जातप्रज्ञानः इति निरुक्तम्। ७।१९। (देवम्) दिव्यगुणप्रदायकम् (सूर्यम्३) सूर्यवद् भासमानं परमेश्वरम् (विश्वाय दृशे) विश्वेषां जनानां साक्षात्करणाय उद् वहन्ति सर्वत्र प्रचारयन्ति ॥११॥४ अत्र श्लेषालङ्कारः। द्वयोरर्थयोरुपमानोपमेयभावश्च व्यज्यते ॥११॥

भावार्थभाषाः -

यथा सूर्यं तद्रश्मयः सर्वेषां जनानामालोकाय भूम्यादिलोकान् प्रापयन्ति, तथा योगिनो विद्वांसः परमेश्वरं स्वयं साक्षात्कृत्य परेषां दर्शनाय सर्वत्रोपदिशन्ति ॥११॥

टिप्पणी: १. ऋ० १।५०।१, य० ७।४१ अन्ते स्वाहा इत्यधिकम्, ३३।३१, अथ० २०।४७।१३ सर्वत्र देवता सूर्यः। अथ० १३।२।१६ ऋषिः ब्रह्मा, देवता रोहित आदित्यः। २. केतवः किरणा इव प्रकाशमाना विद्वांसः इति य० ८।४१ भाष्ये द०। ३. सूर्यम् यः स्रियते विज्ञाप्यते वा वेदैर्विद्वद्भिश्च तम् इति य० ७।४१ भाष्ये द०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये हे मनुष्याः, यूयं यथा केतवो रश्मयो विश्वाय दृशे उदुत्यं जातवेदसं देवं सूर्यम् उद्वहन्ति तथा गृहाश्रमसुखदर्शनाय सुशोभनाः स्त्रिय उद्वहत इति विषये, य० ७।४१ इत्यत्र सूर्यदृष्टान्तेन परमेश्वरविषये, य० ३३।३१ इत्यत्र च सूर्यविषये व्याचष्टे।